Saturday, 11 February 2012

Rig Veda Book 8 Hymn 75

युक्ष्वा हि देवहूतमानश्वानग्ने रथीरिव |
नि होता पूर्व्यः सदः ||
उत नो देव देवानछा वोचो विदुष्टरः |
शरद विश्वा वार्या कर्धि ||
तवं ह यद यविष्ठ्य सहसः सूनवाहुत |
रतावा यज्ञियो भुवः ||
अयमग्निः सहस्रिणो वाजस्य शतिनस पतिः |
मूर्धा कवी रयीणाम ||
तं नेमिं रभवो यथा नमस्व सहूतिभिः |
नेदीयो यज्ञमङगिरः ||
तस्मै नूनमभिद्यवे वाचा विरूप नित्यया |
वर्ष्णे चोदस्व सुष्टुतिम ||
कमु षविदस्य सेनयाग्नेरपाकचक्षसः |
पणिं गोषु सतरामहे ||
मा नो देवानां विशः परस्नातीरिवोस्राः |
कर्शं न हासुरघ्न्याः ||
मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः |
ऊर्मिर्न नावमा वधीत ||
नमस्ते अग्न ओजसे गर्णन्ति देव कर्ष्टयः |
अमैरमित्रमर्दय ||
कुवित सु नो गविष्टये.अग्ने संवेषिषो रयिम |
उरुक्र्दुरु णस कर्धि ||
मा नो अस्मिन महाधने परा वर्ग भारभ्र्द यथा |
संवर्गं सं रयिं जय ||
अन्यमस्मद भिया इयमग्ने सिषक्तु दुछुना |
वर्धा नो अमवच्छवः ||
यस्याजुषन नमस्विनः शमीमदुर्मखस्य वा |
तं घेदग्निर्व्र्धावति ||
परस्या अधि संवतो.अवरानभ्या तर |
यत्राहमस्मि तानव ||
विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः |
अधा ते सुम्नमीमहे ||

http://www.vogaz.com

No comments:

Post a Comment