Thursday, 9 February 2012

Rig Veda Book 8 Hymn 22

ओ तयमह्व आ रथमद्या दंसिष्ठमूतये |
यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ||
पूर्वायुषं सुहवं पुरुस्प्र्हं भुज्युं वाजेषु पूर्व्यम |
सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम ||
इह तया पुरुभूतमा देवा नमोभिरश्विना |
अर्वाचीना सववसे करामहे गन्तारा दशुषो गर्हम ||
युवो रथस्य परि चक्रमीयत ईर्मान्यद वामिषण्यति |
अस्मानछा सुमतिर्वां शुभस पती आ धेनुरिव धावतु ||
रथो यो वां तरिवन्धुरो हिरण्यभीशुरश्विना |
परि दयावाप्र्थिवी भूषति शरुतस्तेन नासत्या गतम ||
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वर्केण कर्षथः |
ता वामद्य सुमतिभिः शुभस पती अश्विना पर सतुवीमहि ||
उप नो वजिनीवसू यातं रतस्य पथिभिः |
येभिस्त्र्क्षिं वर्षणा तरसदस्यवं महे कषत्राय जिन्वथः ||
अयं वामद्रिभिः सुतः सोमो नर वर्षण्वसु |
आ यातं सोमपीतये पिबतं दाशुषो गर्हे ||
आ हि रुहतमश्विना रथे कोशे हिरण्यये वर्षण्वसू |
युञ्जाथां पीवरीरिषः ||
याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम |
ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतंयदातुरम ||
यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे |
वयं गीर्भिर्विपन्यवः ||
ताभिरा यातं वर्षणोप मे हवं विश्वप्सुं विश्ववार्यम |
इषा मंहिष्ठा पुरुभूतमा नरा याभिः करिविं वव्र्धुस्ताभिरा गतम ||
ताविदा चिदहानां तावश्विना वन्दमान उप बरुवे |
ता उ नमोभिरीमहे ||
ताविद दोषा ता उषसि शुभस पती ता यामन रुद्रवर्तनी |
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति खयतम ||
आ सुग्म्याय सुग्म्यं पराता रथेनाश्विना वा सक्षणी |
हुवे पितेव सोभरी ||
मनोजवसा वर्षणा मदच्युता मक्षुंगमाभिरुतिभिः |
आरात्ताच्चिद भूतमस्मे अवसे पुर्वीभिः पुरुभोजसा ||
आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा |
गोमद दस्रा हिरण्यवत ||
सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाध्र्ष्टं रक्षस्विना |
अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ||

http://www.vogaz.com

No comments:

Post a Comment