Wednesday, 8 February 2012

Rig Veda Book 6 Hymn 27

किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार |
रणा वा ये निषदि किं ते अस्य पुर विविद्रे किमु नूतनासः ||
सदस्य मदे सद वस्य पितविन्द्रः सदस्य सख्ये चकार |
रणा वा ये निषदि सत ते अस्य पुर विविद्रे सदु नूतनासः ||
नहि नु ते महिमनः समस्य न मघवन मघवत्त्वस्य विद्म |
न राधसो-राधसो नूतनस्येन्द्र नकिर्दद्र्श इन्द्रियं ते ||
एतत तयत त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः |
वज्रस्य यत ते निहतस्य शुष्मात सवनाच्चिदिन्द्र परमोददार ||
वधीदिन्द्रो वरशिखस्य शेषो.अभ्यावर्तिने चायमानाय शिक्षन |
वर्चीवतो यद धरियूपीयायां हन पूर्वे अर्धे भियसापरो दर्त ||
तरिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत शरवस्या |
वर्चीवन्तः शरवे पत्यमानाः पात्रा भिन्दानन्यर्थान्यायन ||
यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा |
स सर्ञ्जयाय तुर्वशं परादाद वर्चीवतो दैववातायशिक्षन ||
दवयानग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट |
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम ||

http://www.vogaz.com

No comments:

Post a Comment